________________
देये इमे कस्य वरस्य ? नौ पिता, चकार चिन्तामिति यावदात्मना । स्वाभीष्टतादृक्षपतेरभावत-श्चिन्ताम्बुधेरेष निवर्त्तितस्तदा ।। १५ ।।
सीमन्तिनीनां स्ववशः पतिर्यदि, स्यात्तत्सुखं गाढविडम्बनाऽन्यथा । सत्तीर्थसेवैव ततो विधीयते, भोगेषु रोगेष्विव नावयोर्मनः । । १६ ।।
श्रुत्वेति भूपानुमतेश्च तत्पुरो, वचोऽथ मन्त्री निजगाद सादरम् । अयं हि पौत्रो वृषभस्य चक्रिणः, सुतः कलावान्बलवांश्च सद्गुणः ।।१७।।
मया निषेध्यो युवयोर्वचोऽन्यथा- कुर्वन्त्रयं तत्क्रियतां पतिर्वरः । चेतसो वां रुचिरीदृशः पतिः, न लप्स्यते क्वापि भवान्तरेष्वपि ।। १८ ।।
अर्थेऽत्र साक्षी जिन एष एव यः, पुरो निविष्टोऽस्ति जनैः परेरलम् । इत्यादि गाढाग्रहतः सविस्तरं, तयोरभूत्तेन विवाहमङ्गलम् ।।१९।।
सुखं स ताभ्यां सह भोगजं किय- द्दिनानि भुङ्क्ते स्म तदेकमानसः । सहस्रवर्षाऽवधि गङ्गया समं, भोगा न भुक्ता भरतेन किं वा ? ।। २० ।।
कल्येऽष्टमीपर्व भविष्यतीत्यहो !, शृण्वन्तु लोकाः ! इति सर्वतः पुरे । प्रवाद्यमानः पटहः स्फुटस्वरं, ताभ्यां श्रुतोऽन्येद्युरमन्दखेदकृत् । । २१ । ।
अजानतीव क्षितिनाथमुर्वशी, जगौ किमेतत्पटहप्रवादनम् । विधीयते नाथ ! जगाद सोऽपि तां कृशाङ्गि ! पर्वार्थमुपक्रमो ह्ययम् ।। २२ ।।
२२९ उपदेश सप्तति