________________
विधाय वीणां निजपाणिपङ्कजे, शक्रावताराभिधदेवमन्दिरे । आगत्य ते द्वे अपि गीतनर्त्तना-ऽऽदिकं विधत्तां जनमोहकारकम् ।।७।।
तदा समीपद्रुमगा विहङ्गमाः, भुजङ्गगोधाहरिणादयोऽपि च । .. तबादलीना लिखिता इवाऽश्मसु, स्थितास्तदैकायरता निरेजनाः ॥८॥
इतश्च तस्मिन् पथि स व्रजन् नृपो-ऽश्रौषीत्तयोगीतरवान्मनोहरान् । सद्योऽभवत्कीलितवञ्च तच्छ्रुतेः, कस्याऽथवा गीतरवा न मोहकाः ।।९।।
किमुच्यतेऽन्यद्वहुगन्तुमक्षमा, तदाऽश्वपत्तिप्रमुखा चमूरपि । तदाभवत्तन्मयतां गता सती, तत्तादृशं वीक्ष्य चमत्कृतो नृपः ।।१०।।
कार्यद्वयं भावि ममेति बुद्ध्या, तन्मोहितः प्राविशदेष चैत्यम् । स्तुत्वा युगादीशजिनं च तत्र, बलानकेऽथोपविवेश भूपः ।।११।।
तयोर्वचःसौधरसं श्रवःपुटैः, पिबन् वपूरूपरमां च लोचनैः । निभालयंश्चेतसि बुद्धवान् वरं, पुमर्थमेकं तु तृतीयमेव सः ।।१२।।
कुलादिकं ज्ञातुममात्यमादिश-त्तयोर्नृपः सोऽपि ययौ तदन्तिके । एवं च पप्रच्छ कुतः समागते ?, युवां कुलं नाम च किं ? निवेद्यताम् ।।१३।।
एका तयोर्मन्त्रिणमित्यवादी-दावां सुते श्रीमणिचूडनाम्नः । विद्याधरेन्द्रस्य सदापि वीणा-विनोदगीतादिषु बद्धकक्षे ।।१४।।।
२२८ उपदेश सप्तति