SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ "उपदेशः-११" सदाऽपि धर्मः फलदो नृणां मतो, विशेषतः पर्वदिनेषु निर्मितः । . प्रावृट्पयः सर्वमपीप्सितप्रदं, स्यात् स्वातिजं वारि तु मौक्तिकप्रदम् ।।१।। प्रायेण बन्धं तु भविष्यदायुषो, वदन्ति यत् पर्वदिने जिनादयः । विशिष्य धर्मे दृढता विलोक्यते, तस्मिंस्ततः सूर्ययशोनरेन्द्रवत् ।।२।। अभूदयोध्यापुरि मुख्यचक्रिणः, सुतः कृती सूर्ययशोनरेश्वरः । यदीयनाम्ना प्रथितः क्षमातले, श्रीसूर्यवंशोऽतिगरिष्ठविस्तरः ।।१।। युतः सहस्त्रैर्दशभिः क्षमाभुजां, करोत्यसो पर्वणि पौषधव्रतम् । नाऽश्नन्ति भक्तं शिशवोऽपि तद्दिने, तदाज्ञया किं पुनरास्तिको जनः ? ॥२॥ अथैकदा तद्गुणरञ्जितं शिरो, विधूनयन्तं हरिमुर्वशी जगौ । विना निमित्तं किमिदं शिरोधुतं ?, सगौरवं तां प्रति वासवोऽप्यवक् ।।३।। करोत्ययोध्यापुरि राज्यमूर्जितं, सुश्रावकः सूर्ययशा नरेश्वरः । दृष्ट्वा तदीयां व्रतनिश्चलात्मतां, मया शिरोऽकम्प्यत पङ्कजानने ! ॥४॥ श्रुत्वेति सा प्राह मनुष्यमात्रे, स्तुतिं कथं नाथ ! वृथा करोषि ? । यः सप्तधातुप्रतिबद्धमन्न-पिण्डेन पुष्टं च वपुर्बिभत्तिं ॥५॥ . स चेत् परीक्षा क्षमते मया कृतां, तदा त्वदुक्तं घटते वृथाऽन्यथा । . प्रोच्येत्ययोध्यापुरि रम्भया समं, जगाम सा तस्य परीक्षणोत्सुका ।।६।। २२७ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy