________________
न्याय एव प्रधानो मे, दुर्नयेन सुतेन किम् ?। .. अन्येऽप्येवं वितन्वन्ति, शिक्षा चेनाऽस्य दीयते ।।३०।।
ततोऽस्य यो भवेद्दण्ड-स्तं वदन्तु विशारदाः ।। मनागपि न कार्य मे, दाक्षिण्यमभयं हि वः ।।३१।। ..
तैरुक्तं देव ! यो याहक, कुरुते तस्य तादृशम् । अमनोज्ञं मनोज्ञं वा, क्रियते शास्त्रगीरिति ।।३२॥
अवाहयद्यथा वत्सो-परिष्टादेष वाहिनीम् । तथाऽस्यापि विधीयेत, दण्डः कोऽप्यस्य नापरः ।।३३।।
आनाय्य वाहिनीं पुत्रं, स्थापयित्वा च वर्मनि । जनानुवाच भो एषा, पुत्रस्योपरि वाह्यताम् ।।३४।।
ईदृग्विधं तदादेशं, यदा कोऽपि करोति न । प्रत्यक्षं सर्वलोकानां, तदा भूप इदं जगौ ।।३५।।
अयं मदीयो दुष्पुत्रो, जीविताद्वा विनश्यतु । आत्मीयेनापि किं तेन, न्यायो यस्य न वल्लभः ॥३६।।
इत्युक्त्वा सहसोत्थाय, स्वयमेवोपविश्य च । यावत्तां वाहयत्येष, तस्योपरि दयोज्झितः ।।३७।।
तावन गां न वत्सं च, ददर्श स महीपतिः । सा देवी च पुरोभूय, तस्य श्लाघामिति व्यधात् ।।३८।।
२२५ उपदेश सप्तति