________________
केनाप्यालापिता चैषा, भद्रे ! राजकुलं व्रज । न्यायघण्टास्ति या तत्र, शृङ्गाभ्यां तां च वादय ।।१२।।
यथा तवैतदन्यायप्रतीकारं नृपः सृजेत् । पञ्चमो लोकपालोऽयं, सर्वसाधारणो यतः ।।१३।।
श्रुत्वेति सा गता तत्र, घण्टां बाढमताडयत् । तस्मिंश्चावसरे भूपो, भोजनायोपविष्टवान् ।।१४।। .
घण्टानिनादमाका-ऽकाले भूपः ससम्भ्रमः । इदानीं चालिता केन, घण्टेत्याख्यत्स्वसेवकान् ।।१५।।
विलोक्य तेऽपि तं प्राहु-र्नान्यः कोऽप्यत्र गां विनां । अकाले गौः कुतोऽत्रेति, स्वयमेवोत्थितो नृपः ।।१६।।
तत्रागत्य स धेनु तां, सदुःखं प्राह भूपतिः । भवत्या अपि हा ! पापी, कश्चकार पराभवम् ।।१७।।
पराभूताऽसि येन त्वं, तं दर्शय ममाऽधुना । । वराकी सा तु नो वेत्ति, वक्तं मानवभाषया ।।१८।।
किन्तु सा पूरतोभूय, पृष्ठिलग्नस्य भूपतेः । तं वत्सं दर्शयामास, जीवितव्यमिवात्मनः ।।१९।।
उवाच भूपो हट्टादौ, सत्रिविष्टं महाजनम् । क्रूरकर्मेदृशं चक्रे, कः पापीति निवेद्यताम् ।।२०।।
२२३ उपदेश सप्तति