________________
कल्याणकटके राम, इव नीतिलताम्बुदः । यशोवर्माऽभिधो भूपो, भुङ्क्ते साम्राज्यमूर्जितम् ।।३।।
द्विष्टः पुत्रोऽपि तस्याऽऽसीत्, त्याज्य: स्वाङ्गस्थपङ्कवत् । गुणवानस्वकीयोऽपि, मान्यः पुष्पमिवाऽभवत् ।।४।।
निजप्रतोलीद्वारे स, न्यायघण्टामबन्धयत् । यस्य यस्य यदा कार्य, तदा तां स स वादयेत् ।।५।।
तचिन्तां कुरुते भूपः, प्राणैरपि धनैरपि । एवं पालयतो न्यायं, तस्य गच्छन्ति वासराः ।।६।।
तस्य न्यायपरीक्षार्थ, राज्याऽधिष्ठातृदेवता । . विधाय सुरभीरूपं, राजमार्गेऽन्यदा स्थिता ।।७।।
वत्समेकं च सौन्दर्यसौकुमार्यमनोहरम् । विकुळ सद्यः सञ्जातं, स्वपार्श्वे सा न्यवीविशत् ।।८।।
अत्रान्तरे राजसौधा-दारुह्य वरवाहिनीम् । तत्रागच्छत्रभूत्तस्य, राज्ञः पुत्रोऽतिदुर्दमः ।।९।।
अतिवेगवशाचैष, वाहिनीं तामवाहयत् । तस्यैवोपरि वत्सस्य, स वराको मृतः पुनः ।।१०।।
धेनुः कोकूयतेऽत्यर्थं, मुञ्चत्यश्रूणि निर्भरम् । लोको हाहारवं चक्रे, प्रेक्ष्य तादृग्दशां तयोः ।।११।।
२२२ उपदेश सप्तति