SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ "उपदेश-५" अष्टप्रकारां मनुजा जिनार्चना, सृजन्तु सिध्यन्ति यथाष्टसिद्धयः । सहोदरा अष्ट यथा महर्द्धय-श्छित्त्वाष्टकर्माणि शिवश्रियं श्रिताः ।।१।। विदेहे पुष्कलावत्यां, विजये पुण्डरीकिणी । पुरी पवित्रा तत्राऽस्ति, वरसेनाऽभिधो नृपः ।।१।। षट्खण्डमण्डितां पृथ्वी, साधयित्वा भुजोर्जितैः । स चक्रवर्ती सञ्जातो, विक्रमी विनयी नयी ।।२।। अन्यदा सुयशास्तत्र, तीर्थकृत्समवासरत् । । चक्रवर्त्यपि तत्राऽगात्, श्रोतुं तद्देशनामिति ।।३।। जागर्ति यावदिह कालभुजङ्गमो न, पञ्चाननः स्वपिति यावदयं च कामः । यावद्विवेकपिहितास्तिचमोहरात्रि-निर्गच्छसंसृतिवनात्रिभृतोऽङ्गतावत् ।।४।। अत्रान्तरे समायाताः, सर्वाभ्यधिकरोचिषः । अष्टौ केऽपि सुरा भाभि-भूषयन्तो भुवस्तलम् ।।५।।.. अथ नाट्यविधिं धर्म-देशनान्ते जिनाग्रतः । द्वात्रिंशद्भेदभङ्गीभिः, कृत्वा पृच्छन्ति ते जिनम् ।।६।। अस्माकं भविता मोक्षः, कदा 'स्वामिस्तदादिश । किं वा पूर्वभवेऽकारि, पुण्यमेवंविधा यतः ।।७।। १. “स्वामिन् ! ममादिश" "स्वामिंस्त्वमादिश" इत्यपि ।। १९ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy