________________
"उपदेश:-२०॥
न्यायो नराणां परमं निधानं, न्यायेन विश्वानि सुखीभवन्ति । न्यायोपपन्नं पुरुषं श्रयन्ति, श्रियः श्रवन्त्यः सरितामिवेशम् ।।१।।
श्रीरामनाम स्मरति प्रतिप्रगे, जनः समग्रो न तु रावणाऽभिधाम् ।। पूर्वो ददौ किं जगृहे च किं परः, सन्याय एवात्र बिभर्ति हेतुताम् ।।२।।
यतः -
यान्ति न्यायप्रवृत्तस्य, तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं, सोदरोऽपि विमुञ्चति ।।१।।
गया तिदीहा दहवयण, जिहिं सुरसेव करंति । दीहपल्लट्टइं रावणह, पत्थर नीरि तरन्ति ।।२।।
। ये मजन्ति निमजयन्ति च परास्ते प्रस्तरा दुस्तरे, . वार्डों वीर तरन्ति वानरभटान्संतारयन्तेऽपि च । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः, श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते ।।३।।
पतन्त्यो भित्तयो यस्या-जया तिष्ठन्ति निश्चलाः । वशीभवन्ति भूताद्या, अपि यन्नामकीर्तनात् ।।१।।
आस्तां यचरितं तस्य, सेवकोऽपि नरेश्वरः । यशोवर्माऽभिधो न्यायी, यथाऽभूत्रापरस्तथा ।।२।।
२२१ उपदेश सप्तति