________________
तर्जयित्वेति तान् देवी, वचः पुनरिदं जगौ । स्थानस्यैतस्य चेद्धूलिर्भवद्भिः परिगृह्यते ।। १८ ।।
तदा नीरोगता च स्यादित्युक्ते ते तथा व्यधुः । आर्त्ताः किं किं न कुर्व्वन्ति, स्वकार्येकपरायणाः ।। १९।।
तया धूल्या च सर्वेषां शिरोऽर्त्तिर्विलयं गता । अन्येऽपि दुष्टकुष्टाद्या, निर्विलम्बं क्षयं गताः ।। २० ।।
तेषां तस्याः प्रभावेण पुत्रपौत्रादिसन्ततिः । लक्ष्मीशान्तिकमाङ्गल्य - प्रमुखान्यपि जज्ञिरे ।। २१ । ।
ततश्च ब्राह्मणाः लोभ- लुब्धास्तं जगृहुस्तथा । यथा गर्त्ताभवत्तत्र, कालेन किया क्रमात् ।। २२ ।।
एवं सामगर्त्ताऽभूद्विपरीतं कुतो द्विजाः ! । प्ररूप्यते विचारोऽपि हृदि किं न विधीयते ।। २३ ।।
येषां गुरूणां माहात्म्या-दमावस्यापि पूर्णिमा । अभूत्प्रभूतभाग्यानां तेषां निन्दां करोति कः ।। २४ ।।
बाल्येऽपि येषां हस्तस्य, स्पर्शमात्रादपि क्षणात् । व्यवहारिगृहेऽङ्गार - राशि: स्वर्णमयोऽजनि ।। २५ ।।
तदा च तेषां सञ्जाता, हेमचन्द्राऽभिधा वराः । कारितं तेन तेषां च श्रीसूरिपदमुत्तमम् ।।२६।।
तस्माद्विचार्य हृदये, विधेयो गुणिनां स्तवः ।
न तेषु मत्सरः कार्यो, नरैः स्वहितमिच्छुभिः ।। २७ ।।
।। इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारेऽष्टम उपदेशः ।।८।।
२९५ उपदेश सप्तति