________________
हेमचन्द्रगुरुः क्षिप्तो, गर्तायां तत उच्यते । हेमखड्डेति ते मूर्खाः, स्थापयन्ति द्विजाधमाः ।।९।।
यत्तत्प्रलापिनां तेषा-मेवं युक्तिविशारदैः । प्रत्युत्तरं प्रदातव्यं, भो भूदेवाः ! निशम्यताम् ।।१०।।
यदा श्रीहेमसूरीणां, मरणं समजायत । सर्वे विप्रास्तदा हर्ष-प्रकर्ष दधिरे हृदि ।।११।।
यथादित्यो न चूकेभ्यः, सज्जनेभ्यो न दुर्जनः । रोचते न तथा तेभ्य-स्तेषामप्युदयो वरः ।।१२।।
देव्या पद्मावतीनाम्न्या, शिरोऽतिविकृतां तदा । अमन्दं चक्रुरानन्दं, ततस्ते बाढपीडया ।।१३।। ,
सहस्रसंख्या भूदेवाः, शोकसंतप्तचेतसः । स्वस्वगोत्रजदेव्यादे- गादीनि वितेनिरे ।।१४।।
देव्योऽप्यूचुरिहास्माभिः, काऽपि न स्यात् प्रतिक्रिया । किन्तु पद्मावतीदेवी, स्मर्यतां तैस्तथा कृतम् ।।१५।।
ततः पद्मावती प्राह, प्रत्यक्षीभूय तान् प्रति । रे दुष्टाः ! केयमस्थाने, भवतां हर्षकारिता ।।१६।।
एषां त्रैलोक्यपूज्यानां, विपत्तौ त्रिदशा अपि । बभूवुः शोकसंतप्ता, भवन्तो न तु बालिशाः ।।१७।।
mmmmmmmmmmmmmmmmmmmmmmmmm २१४ उपदेश सप्तति