SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ "उपदेशः-८" गुणान् गुणवतां प्रेक्ष्य, मत्सरस्तेषु नोचितः । कर्तुं विवेकिनामत्र, ब्राह्मणानां निदर्शनम् ।।१।। कुमारप्रमुखाऽनेक-भूपालप्रतिबोधकाः। चिरं प्रभावितश्रीमजिनेन्द्रवरशासनाः ।।१।। नवीननिर्मिताऽनेक-ग्रन्थाः श्रीहेमसूरयः । अभूवन्कीर्तिकर्पूर-सुरभीकृतभूतलाः ।।२।। चतुर्युताऽशीतिमितं, स्वायुः सम्पूर्य तेऽन्यदा । दिवं गता महान्तोऽपि, दैवेन ग्रसिता न के ? ।।३।। तादृक्पुरुषरत्नस्य, विनाशेन तदाऽभवत् । नृपादीनां महान् शोको, मनःसन्तापकारकः ।।४।। सृजति तावदशेषगुणालयं, पुरुषरत्नमलङ्करणं भुवः । तदपि तत् क्षणभङ्गि करोति चे-दहह ! कष्टमपण्डिता विधेः ।।५।। विमानोपमितं तेषां, झम्पानं निर्गतं ततः । .. कृत्वा नगरविश्रामं, पुनरुत्पाटितं च तत् ।।६।। तीर्थभूता च तत्स्थान-धूलि: पत्तनवासिभिः । तथा कथञ्चिजगृहे, तत्र गर्ता यथाऽभवत् ।।७।। हेमरवड्ड इति ख्याति-स्ततोऽभूदखिले जने । प्रत्यनीकैर्द्विजैस्तछ, स्थाप्यते पुनरन्यथा ।।८।। २१३ उपटेश सपतिः
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy