________________
सौवर्णाभरणश्रेणी, भूपस्तं पर्यधापयत् । तत्याज कुमतिं सोऽपि, तादृशादरवीक्षणात् ।।३५।।
एवं स काणोऽपि तुरङ्गमो यथा, बभूव मान्यो विनयादिभिर्गुणैः । संगृह्यतां भो भविकास्ततो गुण-श्रेणिर्भवद्भिः कृपणैर्यथा धनम् ।।३६।।
।। इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे सप्तम उपदेशः ।।७।।
२१२ उपदेश सप्तति