SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ "उपदेशः-७" श्रीधर्मतत्त्वं गुणिनां नृणां पुरः, प्रोक्तं प्रदत्तं च हितावहं द्वयोः । तदुझितानां पुनरेतदुक्तयो, वृथाऽऽमकुम्भस्थपयोभरा यथा ।।१।। एकलजागुणेनापि, यद्यश्वो बहुमानितः । ये तु भूरिगुणैर्लोक-प्रियास्तेषां किमुच्यते ? ।।२।। . अस्ति पृथ्वीपुरं तत्र, राजा श्रीरिपुमर्दनः । अर्थिप्रत्यर्थिनो येन, दानमेव वितीर्यते ।।१।। तस्यास्ति श्रीमुखी नाम, वडवा लक्षणान्विता । . यस्याः किशोरकाः प्रायो, जायन्ते जात्यघोटकाः ।।२।। गर्भ बभार साऽन्येधु-रश्वं विश्वगुणान्वितम् । अदभ्रमभ्रमालेव, स्वाङ्के पङ्कजबान्धवम् ।।३।। . सगर्भा तां च स मापो-ऽन्यदाध्यारुह्य वेगतः । अश्ववाहनिकाहेतो-जगाम नगराबहिः ।।४।। अहंपूर्विकया तत्रा-ऽश्ववारैरपरैरपि । अश्वेषु प्रेर्यमाणेषु, कृतकोलाहले जने ।।५।। भारपीडितगात्रत्वात्, गतिं मन्दां वितन्वतीम् । जघान कशया सद्य-स्तामपि स्पर्द्धया नृपः ।।६।। कालक्रमेण सुषुवे, साश्वरत्नमनुत्तरम् । समग्रगुणयोगेऽपि, काणं दक्षिणचक्षुषा ।।७।। २०८ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy