________________
अरे ! त्यजैतदत्रैव, यचैतत् प्रेक्ष्यते तत् । गृहाण काष्ठं तद्यावो, यथा शीघ्रं पुरे निजे || ३६ ||
अथ भीतोऽवदच्छ्रेष्ठी, मा मां क्षिपतमम्बुधौ । उपलक्ष्य तमन्योऽन्यं, ते ब्रूतस्त्वं क्व रे इह ? ।। ३७ ।।
सुतरां कूपिते तस्माद्विगोपनभयादि । सकाष्ठं तं परित्यज्य, तत्र ते गृहमागते ।। ३८ ।।
अन्यत्राप्युक्तम् -
अतिलोभो न कर्त्तव्यो, लोभं नैव परित्यजेत् । अतिलोभाभिभूतात्मा, सागरः सागरेऽपतत् ।।१ । ।
क्रमेण ज्ञातवृत्तान्तो, भीतस्ताभ्यां सुतोऽपि सः । परिव्रज्यामुपादाय, जातः सुखनिकेतनम् ।। ३९ । ।
लोभस्याप्येवमाकर्ण्य, विपाकं विबुधा जनाः । सन्तोषामृतपूरेणाऽऽत्मानं सिञ्चत सर्वदा ||४०||
।। इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे षष्ठ उपदेशः || ६ ||
२०७ उपदेश सप्तति