________________
श्रुत्वेति सरलस्वान्तो, वित्तं पञ्चशतीमितम् । न्यास्थत्तत्रैव तचेतः प्रत्ययाय परोऽपि च ।।९।।
आगतौ स्वगृहे वर्द्धा-पनकं च तयोरभूत् । कियद्दिनान्तरे वित्तं, तद्भूस्थं पापधीरलात् ।।१०।।
अथावसरमासाद्य, पापबुद्धिस्तमब्रवीत् । आगच्छ मित्र ! तद्वित्तं यथा सम्प्रति गृह्यते । । ११ । ।
स्थानद्वयं तदालोक्य, रिक्तं प्राह स पापधीः । आः केनापि हृतं वित्त-मावयोर्जीवितोपमम् ।।१२।।
तं धिगस्तु स पापात्मा, म्रियतां किं करिष्यते । विलापान्कृत्रिमानेवं, स सत्यानिव निर्ममे ।। १३ ।।
अथाऽब्रवीत्स पापात्मा, धार्मिकं धर्म्मबुद्धिकम् । रे धर्म्मधूर्त्त ! रे दुष्ट !, तवैवैतद्विजृम्भितम् ।।१४।।
धर्म्मबुद्धिरपि प्राह भ्रातः ! किमिदमुच्यते । नेदृशं मादृशं कर्म्म, किन्तु कस्यापि पापिनः ।। १५ ।।
जातो विवाद उभयोर्गतौ राजकुले च तौ । पापबुद्धिस्तदा प्राह, चौरोऽयं धर्म्मबुद्धिकः । । १६ ।।
प्राहुर्नियोगिनः साक्षी, युवयोः कोऽपि विद्यते । पापबुद्धिरभाषिष्ट, साक्षिणो वननाकिनः । ।१७।।
२०० उपदेश सप्तति