________________
“उपदेश:- ५”
'मायापिशाचीविवशा नरा ये, स्वार्थेकनिष्ठाः परवञ्चनानि । सृजन्ति तेऽधोगतयो भवन्ति, निदर्शनं त्वत्र स पापबुद्धिः । । १ । ।
पुरे श्रीतिलके द्रव्यो- पार्श्वनैकपरायणी । धर्म्मबुद्धिः पापबुद्धि-रभूतां वणिजावुभौ ।।१।।
ऋजुस्वभावस्तत्राद्यः, सर्वेषां हितचिन्तकः । द्वितीयः कपटी मायी, विश्वस्तस्याऽपि वञ्चकः ।।२।।
तयोरप्यभवन्मैत्री, वाणिज्यं तन्वतोर्मिथः । लोको वदत्ययं योगः, काष्टक्रकचसन्निभः ।। ३ ।।.
तथापि धर्म्मबुद्धिस्तं, न त्यजत्युत्तमत्वतः । अशोभाकृदपि त्याज्यः, कलङ्कः शशिना किमु । । ४ । ।
अन्यदा व्यवसायार्थं, तौ गतौ क्वापि पत्तने ! वणिजां क्षीणवित्तानां, व्यवसायो हि कामधुक् ॥ ५ ॥
पृथग्पृथगुपायैतौ, दीनाराणां सहस्त्रकम् । प्राग्वद्वक्रेतरस्वान्ती, वलितौ स्वपुरं प्रति । । ६ । ।
आसन्ने स्वपुरे प्राप्ते, शठोऽशठमभाषत । एतावदखिलं वित्तं, पुरान्तर्गृह्यते कुतः ।।७।।
- Sवसरे लास्यते पुनः ।
कियन्निधीयतेऽत्रैवा - S राजदायाददस्युभ्यो, भयं वित्तस्य नैकधा ||८||
१९९ उपदेश सप्त