________________
असो पर्यस्तिकां बद्ध्वा, तेषामग्रे निविष्टवान् । ननाम न शठस्तैर-प्युक्तं मैवमुपाविश ।।२३।।
ततो रुष्टः परित्यज्य, तदाश्रममविश्रमम् । अरण्यानीं भ्रमत्रेष, सिंहमेकं व्यलोकत ।।२४।।
पुच्छमुच्छाल्य, सिंहोऽपि, क्ष्वेडाडम्बरभीषणः । तमभ्यधावत क्रुद्धः, सोऽपि मानी व्यचिन्तयत् ।।२५।।
आः ! क एष पशुः किं वा, नश्यतेऽस्माद्वराकतः । लोका अपि हसिष्यन्ति, मां पशोरपि बिभ्यतम् ।।२६।।
इत्यहङ्कारतस्तस्मा-दनश्यंस्तेन मारितः । । शास्त्रेऽपि श्रूयते ह्येवं, मणुआण अहियरो ।।७।।
स जातो गर्दभस्तस्मात्, करभस्तुरगस्ततः । तत्रैव नगरे भूयः, पुरोहितसुतोऽभवत् ।।२८।। ..
भूत्वापि सर्वविद्यानां, पारगः स मृतस्ततः । तत्रैव नगरे जातो, डुम्बोऽहङ्कारदोषतः ।।२९।।
यथा यथा पुरोधास्तं, पश्यत्यस्य तथा तथा । स्नेहः स्याद् दुस्त्यजे येन, स्नेहवैरे पुरातने ।।३०।।
अन्येास्तत्पुरप्राप्तकेवलज्ञानिनोऽन्तिके । पुरोहितस्तत्स्नेहस्य हेतुं पप्रच्छ सोऽप्यवक् ।।३१।।
१९७ उपदेश सप्तति