________________
गतागतं वितन्वानः, स्वप्रासादे प्रतिप्रगे । चिन्तां चकार पुत्राणां, चैत्यस्यानिच्छतामपि ।।९।।
चतुर्मासीदिनेऽन्येधु-स्तस्य चैत्येऽभ्युपेयुषः । मालिन्या ढौकितं पुष्प-चतुस्सरकमेकया ।।१०।।
वित्ताभवात्कथं गृह्णा-म्यहमेतत्तयापि सः । भाषितः किमिदं वाच्यं, सर्वमेतत्तवैव यत् ।।११।।
त्वदीयकवलैरेव, वयं वृद्धिमुपागताः । त्वदपत्यसमा देव !, परकीयमिहास्ति किम् ? ।।१२।।
इति प्रोच्य तया तस्मि-नर्पिते सोऽपि तं मुदा' । . ' गृहीत्वाऽभ्यर्च्य देवं च, तदने समुपाविशत् ।।१३।।
गुरुप्रदत्तश्रीमन्त्र-स्मरणैकाग्रमानसः । . , यावत्तिष्ठत्ययं श्रेष्ठी, तावद्देवः पुरोऽभवत् ।।१४।। अवादीच कपाख्यो, यक्षोऽहं वृषभप्रभोः । सेवको भद्र ! याचस्व, सर्वं यत्ते विलोक्यते ।।१५।। ।
श्रेष्ठ्यप्युवाच मे वित्त-स्पृहा कापि न तादृशी । पुत्राणां किन्तु धर्मस्य, स्थैर्यार्थं किञ्चिदर्थ्यसे ।।१६।।
या मयाद्य जिनेन्द्रस्य, पूजा निर्व्याजभक्तितः । निर्मिता तत्फलं देहि, प्रसन्नो मे भवान् यदि ।।१७।। .
१. “तदा" इत्यपि ।
१६
उपदेश सप्तति