SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ भवे कषाय एकैको-ऽप्यनर्थाय भवस्पृशाम् । चत्वारस्ते पुनर्यत्र, तत्रानर्थे किमुच्यते ।।१७।। तद्धान्यानि खले पुञ्जी-कृतान्यागत्य निश्यसौ । . भस्मीचकार तद्वैरात्, सप्तवर्षाणि कुम्भकृत् ।।१८।। ततस्ते चिन्तयामासु-निष्फलोपक्रमाः सदा । ग्रामाय कुपितः कोऽपि, प्रज्वालयति नः कणान् ।।१९।।. यद्यसौ ज्ञायते क्वापि, सोऽस्माभिः क्षम्यते तदा । अन्यथा कृतमप्येतत्, कर्षणं भावि निष्फलम् ।।२०।। इति निश्चित्य तैर्यक्ष-यात्रार्थ मिलिते जने । . पटहोद्धोषणाऽकारि, निर्भीदानपुरस्सरम् ।।२१।। , धान्यं दहति योऽस्माक-माविर्भवतु सोऽधुना । क्षमयामो यथा शीघ्रं, स्वमन्तुं यक्षसाक्षिकं ।।२२।। . प्रजापतिनिशम्येति कृत्वा वेषविपर्ययम् । श्लोकमेनं पपाठोछे-वैरोपशमहेतवे ।।२३।। अर्ग्यतां तस्य सोऽनड्वान, कुलालस्य द्विरुक्तिकाः । नोचेदन्यामसौ सप्त, वर्षा धान्यानि धक्ष्यति ।।२४।। पुनर्दाहभयाच्छीघ्र-मनुनीय प्रजापतिम् । धौरेयमर्पयित्वा च, क्षमयामासुराशु ते ।।२५।। १८८ उपदेश सप्ततिः
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy