________________
चिन्तयन्नित्यसौ गत्वा, ग्रामान्तर्भाण्डविक्रयम् । यावश्चक्रे व्यग्रचित्त-स्तावत्तैर्वृषभो हतः ।।८।।
स्वस्थचित्तः पुनर्गन्तुं, यावद्गन्त्रिमसञ्जयत् । तावद्धर्यमदृष्ट्वैकं, बुम्बारावं चकार सः ।।९।।
ग्रामीणेषु समस्तेषु, किं किमित्यादिवादिषु । जगदे कुम्भकारेण, वृषभो मे वरो हृतः ।।१०।।
अथोचुस्ते कुलाल ! त्वं, मृषा मा ब्रूहि सर्वथा । धुर्येणैकेन ते गन्त्री, ह्यायान्ती ददृशेऽखिलैः ।।११।।
वृषो चेद्वावभूतां ते, तदाविष्कुरु साक्षिणम् । . श्रुत्वेति कुम्भकृद्यं यं, वादयेत्स स एकवाक् ।।१२।।'
निराशीभूय सोऽगच्छ-न्मत्सरच्छुरितस्ततः । . तद्वार्तामपि विस्मार्य, ग्रामीणास्तेऽवसन् सुखम् ।।१३।।
कुम्भकारोऽपि कोपेन, प्रज्वलन्वनवह्निवत् । उत्तेजितः कुटुम्बेन, किमकिञ्चित्करो भवान् ।।१४।।
शिक्षां तेषां न दस्यूनां, दत्से धत्से नृतां वृथा । कृते प्रतिकृतं कुर्या-दित्यपि त्वं न वेत्सि किम् ।।१५।।
ततः स कोपमानाभ्यां, मायया लोभयुक्तया । तदनाय सञ्जोऽभूत्, सिंहः प्रक्षरितो यथा ।।१६।।
१८७ उपदेश सप्तति