SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ॥ श्री धर्मतत्त्वाधिकारश्चतुर्थः ।। ___ "उपदेशः-१" सम्प्रति श्रीधर्मतत्त्वाधिकारश्चतुर्थः प्रारभ्यते तक द्विधा सामान्यविशेषभेदाभ्याम् । तत्र पूर्व सामान्यधर्माधिकारोदाहरणानि - प्रातः समुत्थाय विहाय शय्या-मुपासकाः श्रीपरमेष्ठिमन्त्रम् । स्मरन्तु यस्मात्सकलेष्टयोगाः, श्रीदेववत् प्राग् भवतां भवन्ति ।।१।। श्रीहर्षो नाम राजाभूत्, पुरे काम्पिल्यनामनि । श्रीदेवस्तस्य पुत्रोऽस्ति, श्रीदेव इव मूर्तिमान् ।।१।। दिग्यात्रायै नृपोऽन्येयु-जिगीषुः सर्वभूपतीन् । चचाल सैन्यसम्भारे-रचलामपि चालयन् ।।२॥ . कामरूपपुरस्वामी, दुर्जेयः किन्तु भूपतिः । चिरं युद्धे तयोर्जाते, नैकस्यापि परं जयः ।।३।।' देवैर्निवारितो युद्धात्, श्रीहर्षः स्वपुरं ययौ । वैराग्येन सुतं राज्ये, न्यस्य प्राव्रजदात्मना ।।४।। श्रीदेवोऽपि पितुर्वैरं, स्मरंस्तं भूपतिं प्रति । मन्त्रिभिर्वार्यमाणोऽपि, विजेतुमचलद्धठात् ।।५।। चिरं युध्वाप्यसञ्जात-जयो भग्नपरिच्छदः । नष्दैकाकी महाटव्यां, प्राप्तः स्वल्पबलो हि सः ।।६।। १८२ उपदेश सप्ततिः
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy