SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ "उपदेश-४" दुःखिनोऽपि न परित्यजन्ति ये, श्रीजिनार्चनविधावभिग्रहम् । धर्मकर्मणि रताः सुखान्विता-स्ते भवन्ति धनदः पुरा यथा ।।१।। पुरा शङ्खपुरे श्रेष्ठी, धनदो धनदोपमः । आसीत्ररपतेर्मान्यः, पात्रमुद्दामसम्पदाम् ।।१।। क्रमात्तस्याऽभवन्पुत्राश्चत्वारश्चतुराशयाः । त्रिवर्गाराधनप्राप्त-सर्वाङ्गीणमहोदयाः ।।२।। न्यायोपात्तानि वित्तानि, सफलीकर्तुमुद्यतः । तत्राकारयदुत्तुङ्गं, स श्रेष्ठी जिनमन्दिरम् ।।३।। कुटुम्बभारमारोप्य, सुतेषु वितनोत्ययम् । त्रिःपूजाद्विःप्रतिक्रान्तिप्रमुखं धर्ममार्हतम् ।।४।। अथाभाग्यवशादस्य, वित्तं तुत्रोट मन्दिरे । न पुनर्जिनधर्मस्य, लवोऽपि हृदयान्तरे ।।५।। तुच्छप्रकृतयः पुत्राः, किन्तु धर्मावहीलनाम् ।... कुर्वाणाः पितरं प्राहु-धर्मादेव धनं गतम् ।।६।। पिता प्राह न वत्साः ! भो, वचनं वाच्यमीदृशम् । लोकेऽपि श्रूयते येन, यतो धर्मस्ततो जयः ।।७।। ततो निर्द्रव्यतादुःखी, मानम्लानिभिया क्वचित् । ययौ शाखापुरे तत्रा-प्येष धर्म मुमोच न ।।८।। १५ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy