________________
तत्पातने क्षमो नाऽभू-शिरेणापि स्वयं ततः । गृहीतं गुरुभिः सोऽपि, लज्जितो हसितो जनैः ।।४५।।
द्वितीयदिवसेऽप्येष, घटं पानीयपूरितम् । गगनेऽस्थापयद्गर्व-मखर्वं च विनिर्मिमे ।।४६।।
घटोऽप्याहत्य तेनैव, खण्डशोऽकारि सूरिणा । परं तत्रैव पानीयं, स्तम्भितं निजविद्यया ।।४७।।
तश्चमत्कारमालोक्य, न केषां विस्मयोऽभवत् । मुक्त्वैकं तद्गुरुं सर्वे, ततः स्वं स्वं गता गृहम् ।।४।।
इत्यादिनानाप्रवरप्रभावना-भरैः सुरत्राणमपि व्यबूबुधत् । स्तोत्राणि यः सप्तशतीमितानि च, ग्रन्थांश्च जग्रन्थ बहूपकारिणः ।।४९।।
स श्रीजिनप्रभः सूरि-दुरिताशेषतामसः । भद्रं करोतु सङ्घाय, शासनस्य प्रभावकः ।।५०।।
।। इति श्रीउपदेशसप्ततिकायां तृतीयेऽधिकारे पञ्चम उपदेशः ।।५।।
इति श्रीपरमगुरुतपागच्छनायकश्रीसोमसुन्दरसूरिपदकमलसेविमहोपाध्याय
श्रीचारित्ररत्नगणितद्विनेयपण्डितसोमधर्मगणिविरचितायां उपदेशसप्ततिकायां श्रीगुरुतत्त्वाऽधिकारस्तृतीयः ।।३।।
१८१ उपदेश सप्तति