________________
तमप्युवाच सूरीन्द्रो, मा भैषीधरतां भज । वयं हि साधवः पीडां, न केषामपि कुर्महे ।। ३६ ।।
इति प्रोच्य स शालाया, अपि निष्काशितो बहिः । इत्यादिकौतुकैः साधु - वर्गस्तैः प्रीणितश्चिरम् ।। ३७ ।।
सूरीणामुपदेशेन, सैन्यसङ्घसमन्वितः । ततो गतः सुरत्राणः, श्रीशत्रुञ्जयपर्वते ।। ३८ ।।
तत्र सङ्घपकृत्यानि, भूपाय कृतपूर्विणे । दुग्धेनावर्षयत् सूरि- स्तरुं राजादनीं तदा ।। ३९ ।।
यात्रां रैवतकेऽप्येवं, विधाय गुरुभिः समं । सदुत्सवैः सुरत्राणः, प्राप्तवान् योगिनीपुरे ।। ४० ।।
अथैकदा सुरत्राणः, सभासीनः सृजन्नभूत् । श्रीसूरिभिः समं प्रीति-गोष्ठीमिष्टार्थसाधिकाम् ।।४१।।
तदा तस्य गुरुः कोऽपि प्राप्तस्तत्र स्वविद्यया । शीर्षस्थटोपिकां व्योम्नि, निरालम्बामतिष्ठिपत् ।।४२।।
आहत्य लकुटेनेव, स्वरजोहरणेन ताम् । क्ष्मायामपातयत्सूरि- रे - स्तन तत्र न्यवीविशत् ।।४३।।
आचार्यस्तमुवाचैवं, शक्तिः काप्यस्ति चेत्तव । तदैनं पातय क्ष्माया - मन्यथा मौनमाचर ।। ४४ ।
१८० उपदेश सप्तति