________________
ओमिति प्रतिपेदाने, चलिते तत्र भूपतौ । वटोऽपि सेवक इवाऽचलत्सूरिप्रभावतः । ।१८।।
चलन्तं तं वटं प्रेक्ष्य, लोका उत्फुल्ललोचनाः । सूरीन्द्रं मनुजेन्द्रं च प्रशंसन्ति पदे पदे । । १९ । ।
कियत्यपि व्यतिक्रान्ते, मार्गे भूपोऽभ्यधाद्गुरून् । वटो विसृज्यतामेष, फेरकोऽस्याभवद्वहुः ।। २० ।।
इत्युक्ते सूरिभिः प्रोक्तो, वटो नत्वा नृपं व्रज । स्वस्थानकं तथैवाय-मपि चक्रे सुशिष्यवत् ।। २१ ।।
मरुस्थल्यामथायाते, भूपे तत्रत्यपूर्जनाः । आयान्ति 'सम्मुखाः स्थाने, स्थाने प्राभृतपाणयः || २२ | |
सामान्यवेषांस्तान् दृष्ट्वा, भूपः पप्रच्छ तान् गुरून् 1 किमित्येवंविधा एते, प्रेक्ष्यन्ते लुण्टिता इव ।। २३ ।।
देशाचाराद्बहुद्रव्या-ऽभावाच्चैवंविधो जनः । अत्र प्रायो भवेत् स्वामि-नान्यत्किञ्चित्तु कारणम् ।।२४।।
ततः प्रतिनरं पञ्च-वस्त्रीं दिव्यामदापयत् । स्त्रियं प्रति च सौवर्ण-टङ्कयुग्मं च शाटिकाम् ।।२५।।
इत्थमाशां जनस्यैष, पूरयन्नब्दवत्क्रमात् 1 प्राप्तवान् पत्तनासन्ने, जङ्घरालमहापुरे ।। २६ ।।
१७८ उपदेश सप्तति