________________
तरवारिप्रभृत्यत्र-प्रहारास्तेन मोचिताः । तदङ्गे न लगन्ति स्म, सन्नाहमिव बिभ्रति ।।९।।
छत्रदण्डे निबध्यैनं, तस्याधः पुनरुन्दरम् । स्थापयित्वा स मार्जारी, प्रेरयामास कौतुकी ।।१०।।
तदृष्टिमात्रादुत्पन्न-वैराद्धावति तं प्रति । तच्छायां किन्तु नायाति, पार्श्वस्थैः प्रेरितापि सा ।।११।।
इत्यद्भुतद्वयं दृष्ट्वा, यन्त्रे ताम्रमये पुनः । कारयित्वा तयोरेक, स्वपार्श्वे स न्यवीविशत् ।।१२।। .
एकं च गुरुपादानामुपदीचकृवानयम् । कदाचिदुपकारं हि, विस्मरन्ति न साधवः ।।१३।।
ततः प्रभृत्यसौ तान् श्री-गुरून मुञ्चति न क्वचित् । स्थाने याने गृहे ग्रामे, सभायां विजने वने ।।१४।।
एकदा गुर्जरत्रायां, सुरत्राणो यियासया । ग्रामावहिर्वटस्यैक-स्याऽधः प्रस्थानमादधे ।।१५।।
शीतलं शाड्वलच्छायं, पृथुलं तं पुनः पुनः । निभालयन् सुरत्राणो, गुरून् पप्रच्छ हृद्गतम् ।।१६।।
शोभनोऽयं वटः सूरे !, तन्मनोभाववेदिनः । तेऽप्यूचुर्यदि वो वाञ्छा, तदाऽयं सह चाल्यते ।।१७।।
१७७ उपदेश सप्तति