________________
"उपदेश:-५" श्रीसूरयः केऽपि कलौ युगेऽभवन्, दीपा इव श्रीजिनशासनौकसि। अत्रोच्यते म्लेच्छपतिप्रबोधकृ-जिनप्रभः सूरिवरो निदर्शनम् ।।१।।
‘दन्तविश्वमिते वर्षे, श्रीजिनप्रभसूरयः । अभूवन भूभृतां मान्याः, प्राप्तपद्मावतीवराः ।।१।।
अन्यदा ते चतुर्मासी, स्थिताः श्रीयोगिनीपुरे । श्रीपीरोजसुरत्राणो, राजा यत्र विराजते ।।२।।
पुरान्तस्तेऽन्यदा म्लेच्छा-नुपद्रवविधायिनः । ग्रीवामोटनतत्सज्जी-करणाद्यैरशिक्षयन् ।।३।।
अवदातेन तेनाऽमी, विश्वविस्मयकारिणा । आभूपगोपं सञ्जाताः, जगद्विख्यातकीर्तयः ।।४।।
भूपेन कारितास्ते तं, श्रीधर्मोक्तिपुरस्सरम् । । । प्रत्यहं प्रीणयन्ति स्म, वाक्यैरवसरोचितैः ।।५।।
पृष्टो विजययन्त्रस्या-ऽऽम्नायस्तेन महीभुजा । स सूरिस्तं जगौ तस्य, तादृशानामगोचरम् ।।६।।
देवायं यत्समीपे स्या-त्तस्यानमपि दैवतम् । न लगेन च बाधेत, वैरी रोषारुणोऽपि सन् ।।७।।
इत्याकर्णितपूर्वी तद्, यन्त्रं निर्माप्य भूपतिः । छागस्यैकस्य कण्ठे च, परीक्षार्थमबन्धयत् ।।८।।
१७६ उपदेश सप्तति