________________
सम्यक्त्वोद्यापनेऽप्रैषी-त्प्रतिग्रामं स मोदकान् । . मुक्तिवल्लयाः फलानीव, हेमटङ्ककगर्भितान् ।।३६।।
तुर्यव्रतोद्यापने तु, तथैव प्रजिघाय सः । . पञ्चवर्णदुकूलानां, परिधापनिकाः शुभाः ॥३७।।
तदा मन्त्रिकृते चैकां, परिधापनिकामसौ । स्वनरैः प्रेषयामास, ते तां लात्वा समागताः ।।३८।।
तेऽप्यूचुमन्त्रिणं देव !, बहिष्पादावधार्यताम् । परिदध्वमतो यूयं, श्रीधरमहितां मडिं ।।३९।।
मन्त्रिणा भाषिता भार्या, कथं देवि ! विधास्यते । साप्याह तत्समीभूय, स्वामिन् ! सा परिधीयताम् ।।४।। तत: श्रीधर्मघोषान्ते, द्वात्रिंशद्वार्षिकोऽप्यसौ । चक्रे शीलव्रतोझारं, पुत्रस्त्वेकोऽस्ति झञ्झणः ।।४।। सहस्त्रकैः षोडशभि-ष्टङ्ककानां विधाप्य च । , मडेस्तस्याः प्रवेशं स, स्वयं परिदधौ च ताम् ।।४।। इत्यनेकसुकृतैश्चिरमर्ह-च्छासने स्वकमलोल्लसितानि । भानुमानिव विधाय गतोऽस्तं, स क्रमात् शिवपुरेऽपि गमी च ।।४३।।
मुख्यां यो विमलाचले परिदधौ मालां व्ययित्वा घटीहेम्नः सप्तगुणाष्टकप्रतिमिता राज्ञां वदान्यस्तथा । यः कर्पूरकृते च दक्षिणकरं संयोजयामासिवान्, स श्रीझझणदेस्तदीयतनयः केषां न वर्ण्यः सताम् ।।४४।। ।। इति श्रीउपदेशसप्ततिकायां तृतीयेऽधिकारे चतुर्थ उपदेशः ।।४।।
१७५ उपदेश सप्तति