________________
स च दैगम्बरश्चापि, सङ्घौ युगपदागतौ । गिरिनारे विवादोऽभूत्तीर्थात्मीकरणे तयोः ।।१८।।
उभयोरिन्द्रमालां यः, परिधास्यति सङ्कपः । तस्य तीर्थमिदं भावि, तदेति स्थविरा जगुः ।।१९।।
।
तदा च सहसोत्थाय, पेथडः पुण्यपेशलः । ऐन्द्रीं परिदधे मालां, तीर्थमात्मीचकार च ।।२०।।
त्रिघ्नसप्तप्रमास्तेन, स्वर्णघट्यो व्ययीकृताः । अहो ! उच्चपदप्राप्त्यै, पुरुषाणामुपक्रमः ।।२१।।
अधः क्षिपन्ति कृपणाः, वित्तं तत्र यियासवः । . . . सन्तस्तु गुरुचैत्यादा-वुन्नतं पदमिच्छवः ।।२२।।
इत्येकादशलक्षाणि, व्ययीकृत्य स यात्रया । आगतो मण्डपे दुर्गे, भूभुजा बहुमानितः ।।२३।। ,
यः श्रीमण्डपदुर्गस्थ-जिनचैत्यशतत्रये । अस्थापयत् स्वर्णकुम्भान्, स्वप्रतापानिवोज्ज्वलान् ।।२४।।
सप्तघ्नद्वादशमितान्, प्रासादानिरमापयत् । शत्रुञ्जयादिस्थानेषु, यशःपिण्डानिवात्मनः ।।२५।।
श्रीधर्मघोषसूरीणां, यः प्रवेशमहोत्सवम् । टङ्ककानां द्विसप्तत्या सहनिरमीमयत् ।।६।।
१७३ उपदेश सप्तति