________________
पूर्वं चेदगमिष्यस्त्वं, तद्भूपोऽत्र त्वमेव भोः ! । अभविष्य इदानीं तु, भावी तत्प्रतिरूपभाक् ।।९।। .
तेनेत्युत्साहितः प्राप्तः, स पुरान्तःकृतस्थितिः । क्रमात्सारङ्गदेवस्य, राज्ञो मन्त्रिपदं दधौ ।।१०।।
ततः प्राप्ताधिकारोऽपि, न मुमोच स्वनिश्चयान् । मर्यादामुजिहीते किं, पयःपूरेऽपि सागरः ? ।।११।।
नागवल्लीदलान्येष, विना सचित्तमत्यजत् । सर्वं भूपसभे तस्य, निःश्रीकं मुखमन्यथा ।।१२।।
यदा पर्यङ्किकारूढः, सभां याति स मन्त्रिराट् । , तदोपदेशमालायाः, गाथामेकां पठत्यसौ ।।१३।।
राजकार्यव्यापृतत्वा-तस्य वेलाऽन्यदा तु न । . आलोचादेरभावेन, निर्व्यापारो ह्यसौ तदा ।।१४।।'
इत्थं पपाठ तां पूर्णा, कियद्भिरपि वासरैः । अहो ! ज्ञानोद्यमस्तस्य, कस्य नो विस्मयावहः ? ।।१५।।
इति पेथडदेमन्त्री, प्रतिष्ठां प्राप्य भूपतेः । श्रीधर्मोऽपि प्रतिष्ठायां, तेन प्राप्यत तद्यथा ।।१६।।
सप्तलक्षैर्मनुष्याणां, द्वापञ्चाशजिनालयैः । श्रीतीर्थद्वययात्रायै, चलितः पेथडोऽन्यदा ।।१७।।
१७२ उपदेश सप्तति