________________
श्रीनेमिशासने रक्षा-कारिणी विघ्नवारिणी । . अम्बिका व्यन्तरी जाता, भट्टस्तस्यास्तु वाहनम् ।।२१।।
तस्या निदेशतस्तस्मिन्, सिंहरूपविधायिनि । आरूढा क्रीडति स्वैरं, शिरस्थजिनमूर्तियुक् ।।२२।।
बहुश्रुतेभ्य आकर्ण्य, किञ्चिद् दृष्ट्वा च किञ्चन । प्रबन्धादौ मयाऽलेखि, सम्बन्धोऽयं प्रबोधकृत् ।।२३।।
एवं जिनध्यानपरायणायाः, श्रीअम्बिकाया अवधार्य वृत्तं । भो भव्यलोकाः विलसद्विवेकाः !, सदा जिनध्यानपरा भवन्तु ।।२४।।
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे सम्यक्त्वोपरि तृतीय उपदेशः ।।३।।
१४ उपदेश सप्तति