SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ अमी मलीमसा लोक-व्यवहारबहिर्मुखाः । पशुप्रायाः स्वपरयो-रपि व्यक्तिं न जानते ।।२५।। इत्याद्यनल्पसङ्कल्पान्, हृदि द्यात्वा शिलातले । क्वापि तं कुम्पकं बाढं, स्फोटयामास निर्दयम् ।।२६।। क्षणान्तरे च सा जाता, शिला सर्वा हिरण्मयी । सकौतुकं सनिर्वेद, पुनर्योगीत्यचिन्तयत् ।।२७।। अहो ! श्रीगुरुपादानां, प्रभावः कोऽपि नूतनः । यदीयमलमूत्राद्य-मपि स्वर्णस्य कारकम् ।।२८।। कटरे ! तपसः शक्ति-र्वपुरे ! भाग्यवैभवम् । स्वर्णपुंवद् यदीयेयं, तनुः सर्वापि रैमयी ।।२९।। , मया क्लेशसहस्रेण, रससिद्धिविधीयते । अमीषां तु स्वभावेन, सा वपुःस्थैव विद्यते ।।३०।। इत्यवेत्य समागत्य, नत्वा तांश्च युगोत्तमान् । स्वकीयमपराधं स, क्षमयामास योगिराट् ।।३१।। ततो नागार्जुनस्तान् श्री-गुरून् कल्पद्रुमानिव । चिरमाराधयामास, वन्दनस्तवनादिभिः ।।२।। इति सुरवल्लीमिव ये, मनुजा आराधयन्ति गुरुभक्तिम् । तेषामखिलसमीहित-पदार्थसिद्धिर्भवत्यचिरात् ।।३३।। ।। इति श्रीउपदेशसप्ततिकायां तृतीयेऽधिकारे तृतीय उपदेशः ।।३।। १७० उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy