________________
"उपदेशः-३" सम्यग्रहदयशुद्ध्या, श्रीगुरुपादा निषेविताः । तुष्यन्त्यत्रोच्यते योगि-नागार्जुननिदर्शनम् ।।१।।
विद्याधराभिधे स्वच्छ-गच्छे विख्यातकीर्तयः । श्रीपादलिप्तनामानो, जज्ञिरे सूरिपुङ्गवाः ।।१।।
येषां श्रीगुरवो बाल्ये, मुदिता गाथयैकया । पादलेपाभिद्यां विद्यां, ददुराकाशगामिनीम् ।।२।।
इयं च गाथा -
अंबं तंबच्छीए, अपुष्फिअं पुष्पदंतपंतीए । नवसालिकंजिअं नव-वहूइ चडुएण मे दिन्नं ।।१।। .
शत्रुञ्जयाष्टापदरैवतार्बुदे, संमेतशैले वरतीर्थपञ्चके । जिनानमस्कृत्य सुविद्यया तया, वितेनिरे भोजनमन्यथा न ते ।।३।।
समग्रविकृतित्यागा-येषां केवलमोदनम् । गृह्णतामारनालेन, बभूवुर्नकलब्धयः ।।४।।
कपटश्रावकीभूय, योगी नागार्जुनोऽन्यदा । विद्याम्नायं जिघृक्षस्तं, गुरुपादान्यषेवत ।।५।।
नित्यं वन्दनकान्येष, ददाति गुरुपादयोः । लब्धलक्ष्यतया जिघ्र-नेव वेत्त्यौषधान्यपि ।।६।।
१६७ उपदेश सप्तति