SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आज्ञाशूरस्य तस्यैत-द्वचोऽतिक्रमभीरवः । ओमिति प्रत्यपद्यन्त, समग्रं ते सभासदः ।।१८।। अरोचमानोऽप्यन्येभ्य-स्तयोः पाणिग्रहो मिथः । कारितो वासुदेवेन, किमसाध्यं हि तादृशाम् ।।१९।। गता तस्य गृहे सापि, स्फाराऽलङ्कारधारिणी । वर्यपल्यङ्कमारूढा, देवीव भुवमागता ।।२०।। न तस्य गेहकृत्यानि, विनयं चापि नाकरोत् । स एव किन्तु सञ्जात-स्तदादेशवशंवदः ।।२१।। वासुदेवाच्छङ्कमान-स्तां सुरीमिव मन्यते । सोऽपि तस्याऽभिसन्धिं तु, न वेत्ति हदि संस्थितम् ।।२२।। आलापितोऽन्यदा वीरः, कृष्णेन गृहिणी तव । कृत्यानि कुरुते नो वा, विनीतः सोऽपि तं जगौ ।।२३।। त्वत्सुता वर्यसौन्दर्या, देवीवाराध्यते मया । . हसन्ति सभ्याः सर्वेऽपि, वासुदेवोऽपि तं जगौ ।।२४।। तस्याः पार्धात्समस्तानि, गेहकृत्यानि कारयः । मनागपि ममाशङ्कां, तस्या अपि च मा कृथाः ।।२५।। गृहागतः स तां गाढं, तर्जयामास पापिनि ! । उपविश्य स्थिता कस्मा-दुत्तिष्ठ कुरु पाचनीम् ।।२६।। १६४ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy