________________
स्वमातृशिक्षिता काचि-दन्यदा तनयाऽवदत् । अहं दासी भविष्यामि, हृदि दध्यौ हरिस्ततः ।।९।।
कयापि शिक्षिता नून-मियं मुग्धा वदत्यदः । . अस्यास्तथा करिष्येऽहं, यथाऽन्याऽपीति वक्ति न ।।१०।।
अस्ति शालापतिस्तस्य, वीरनामा सुसेवकः । आबाल्यादपि तद्वृत्तं, वेत्ति हास्यकरं हरिः ।।११।।
.
दित्सुस्तां तनयां तस्मै, सभ्यानां पुरतो जगौ ।। स्तुतिरूपेण तद्वृत्तं, नीचमप्युञ्चतां नयन् ।।१२।।
भो भो निभाल्यतां सभ्याः !, वीरोऽयं वीरपुङ्गवः । एतत्पराक्रमप्रौढिः, श्रूयतां निगदाम्यहम् ।।१३।। ।
जेण घोसवई सेणा, वसन्ती कलसीपुरे । झम्पिआ वामहत्थेण, वेमई नाम खत्तिओ ।।१४।। ,
जेण रत्तफणो नागो, वसन्तो बदरीवणे । . आहओ पुढविहत्थेण, वेमई नाम खत्तिओ ।।१५।।
जेण चक्कुक्खई गंगा, वहन्ती कलुसोदगम् । धारिआ वामपाएण, वीरओ नाम खत्तिओ ।।१६।।
तदेष विक्रमी वर्यः, कन्याया उचितो वरः । ईदृक्षो नेक्ष्यतेऽन्यस्तु, यो मह्यं हृदि रोचते ।।१७।।
१६३ उपदेश सप्तति