SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ "उपदेश:-२" ददाति यो वन्दकानि पादयोः, श्रीमद्गुरूणां विनयेन भावितः । उच्चैः पदं तस्य न दुर्लभं भवे-दर्थेऽत्र कृष्णः क्रियते निदर्शनम् ।।१।। . अस्ति द्वारवती नाम, पुरी सुरपुरीसमा । अपसार्य समुद्रं या, धनदेन विनिर्मिता ।।१।। कंसकैटभचाणूर-जरासन्धादिवैरिजित् । वासुदेवोऽन्तिमस्तत्र, भुङ्क्ते साम्राज्यसम्पदम् ।।२।। यस्य क्षायिकसम्यक्त्वं, परदोषाऽविकत्थनम् । अपयुद्धनिषेधश्च, गुणा लोकोत्तरा अमी ।।३।। दीक्षां जिघृक्षुर्यः कोऽपि, तनयस्तनिषेधनम् । तेन न क्रियते कन्या-विवाहेऽस्य तु निर्णयः ।।४।। . यदा विवाहयोग्या स्यात्, पुत्री तजननी तदा । . , विभूष्य प्रेषयत्यन्तः-सभं कृष्णोऽपि तां वदेत्. ।।५।। त्वं भविष्यसि किं राज्ञी, दासी वेति वदाऽङ्गजे ! राज्ञी यदि तदा तस्या-स्तपस्यां दापयत्यसौ ।।६।। करोति कारयत्यन्यै-रतुच्छोत्सवसन्ततिम् । श्रामण्यं तत्त्वतः शक्र-राज्यादप्यधिकं यतः ।।७।। चेद्दासी तत्तदीयाया-जनन्या एव मन्दिरे । तां प्रेषयति सैवाऽस्याः, विवाहादि करोति च ।।८।। १६२ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy