________________
स च तेषु विशेषतो रसिकोऽपि तस्मिन्नेव भाजने निहितदृष्टिरुभयपार्श्वनृपनियुक्तखड्गव्यग्रकरसुभटक्रियमाणनानाबिभीषिकाभिर्भाप्यमानः सकलपुरे भ्रामयित्वा आनीतः । नृपोऽपीषद्विहस्य तं प्रति प्राह, भो ! अत्यन्तचञ्चलानि मनःकरणानि कथं भवता रुद्धानि ? । तेनोक्तम्, स्वामिन् ! मरणभीरुतया । नृपः प्राह, योकभवार्थं त्वयाऽप्रमादः सेवितः, तनन्तसंसारमरणभीरवः साध्वादयः कथं प्रमादं कुर्युः ? । श्रेष्ठिराज ! आकर्णय हितवचनम्
यत्करोति विकथाः प्रथावती-यंत्खलेषु विषयेषु दृप्यति । : सुप्तमत्त इव यद्विचेष्टते, यन्न वेत्ति गुणदोषयोभिदाम् ।।१।।
क्रुध्यति स्वहितदेशनेऽपि य-द्यञ्च नरकादियोनिषु । लोक एष निखिलं दुरात्मन-स्तत्प्रमादकुरिपोर्विज्जृम्भितम् ।।२।।
तेन मा कार्षीः प्रमादम् । यजस्व जिनम् । भजस्व गुरुम् । पालय षडावश्यकविधिम् । मा पत संसारकूपे । इत्यादितदीयशिक्षया प्रतिबुद्धोऽसौ सत्यः श्रावको जातः । पद्मशेखरनृपोऽपि क्रमेण गुरुगुणवर्णनपरो बहुलोककृतपुण्यलाभ: सुगतिं प्राप ।।
श्रुत्वेति कुग्रहविनिग्रहणैकमन्त्रं, श्रीपद्मशेखरनरेश्वरसञ्चरित्रम् ।. सज्ज्ञानदर्शनचरित्रभृतां गुरूणां, भव्या जनाः ! गुरुगुणान् परिकीर्तयन्तु ।।१।।
।। इति श्रीउपदेशसप्ततिकायां तृतीयेऽधिकारे प्रथम उपदेशः ।।१।।
१६१ उपदेश सप्तति