________________
नाणोवउत्ते जाणवत्तसमाणे, अप्पाणं परं च तारेइ । इत्यादि श्रीगुरुगुणवर्णनैर्भूयान् जनस्तेन स्थापितो धर्मे । परमेको विजयो नाम वणिग् नास्तिकमतानुसारी इति भणति, दुःशकानि रोद्धमिन्द्रियाणि स्वस्वमार्गानुगामुकानि । आत्मशोषणमात्रमेव तपः । केन दृष्टौ स्वग्र्गापवगौ । उक्तं च -
हत्थागया इमे कामा, कालिआ ते अणागया । .. को जाणइ परे लोए, अस्थि वा नत्थि वा पुणो ।।१।। ततो न किञ्चिदेतत् । इत्थं तेनापि भूयान् जनो विप्रतारितः । एवं च तस्मिन् नगरे तो द्वावपि पुण्यपापोपदेशकुशलौ प्रत्यक्षाविव सुगतिदुर्गतिमार्गा समजायेतां । अन्यदा तत्स्वरूपं नृपेण ज्ञात्वा प्रच्छन्नं निजजनपार्धात्तगृहे हारमेकं लक्षमूल्यं तदीयाभरणकण्डके प्रक्षेप्य नगरे च पटहो दापितः । 'यो राज्ञो हारं गतं सम्प्रति कथयिष्यति तस्य न दण्डः, पश्चात्तु यस्य गृहे लप्स्यते तस्य दण्डो विधास्यते' इत्यादि । यावन्न कोऽपि मन्यते ततः सर्वगृहशोधनपूर्वं शोधितं तस्यापि गृहम्, लब्धो हारः । धृतो राजपुरुषैः श्रेष्ठी । आनीतो राजसमीपे । आदिष्टोऽसौ वराको वध्यः । न च कोऽपि तं मोचयति । स्वजनादिबहूक्ते राजा वदति -
जइ मम पासाओ ति-लपुन्नपत्तं गहित्तुं बिंदुपि । अचयंतो सयलपुरे, भमिउं पुण ठवइ मह पुरओ ।।१।। .
एवं यदि करोति तदेवास्य मोक्षो नान्यथा । तेन तदपि मरणभीत्या प्रतिपन्नम् - तत्तो निरूविआई, सयलपुरे पउमसेहरनिवेण । पडुपडहवेणुवीणा-इं सद्दउद्दामहरिसाई ।।१।। अइलडहरूवलवणिम-सुवेसवेसाविलासकलिआई। सब्बिंदिअसुहआई, पए पए पिच्छणसयाई ।।२।।
१६० उपदेश सप्तति