________________
।। श्रीगुरुतत्त्वाधिकारस्तृतीयः प्रारभ्यते ।।
__ "उपदेशः-१" अथ गुरुतत्त्वाधिकारस्तृतीयः प्रारभ्यते । तत्र श्रीगुरुलक्षणं चे -
.
निवर्तयत्यन्यजनं प्रमादतः, स्वयं च निष्पापपथे प्रवर्त्तते । गृणाति तत्त्वं हितमिच्छुरङ्गिनां, शिवार्थिनां यः स गुरुर्निगद्यते ।।१।।
ततश्च श्रीगुरूणां गुणोत्कीर्तनेन विधिना कृतिकर्मप्रदानविनयभक्तिबहुमानादिभिश्च सम्यग् विवेकवताराधनं कार्य कलियुगे तदायत्तत्त्वाच्छ्रीजिनधर्मस्य । यदुक्तं - कइआवि जिणवरिंदा, पत्ता, आयरा, आयरिए० ।।१।। ..
श्रीगुरुगुणोत्कीर्तने पद्मशेखरनृपोदाहरणम् । यथा,
पृथ्वीपुरे पुरे पद्मशेखरो राजाऽतीवधर्मपरोऽन्यानपि धर्मे प्रवर्त्तयति, लोकानां पुरतो गुरुगुणांश्च कीर्तयति । तथाहि -
खंता दंता संता, उवसंता रागसेसपरिचत्ता । परपरिवायविरत्ता, अपमत्ता जे उ ते गुरुणो ।।१।।
वंदिजमाणा न समुक्कसंति हीलिजमाणा न समुज्जलंति । दंतेण चित्तेण चरन्ति धीरा, मुणी समुग्घाइअरागदोसा ।।२।।
दुविहे गुरू पन्नत्ते, तंजहा-तवोवउत्ते, नाणोवउत्ते अ । तत्थ तवोवउत्ते वडपत्तसमाणे, केवलं अप्पाणं तारेइ ।
१५९ उपदेश सप्तति