SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ चतुर्युताशीतिमित-प्रासादेष्वर्हतां भवेत् । यावान् द्रव्यव्ययस्तावा-नेकस्मिन् सारूआरके ।।१८।। अन्यान्यपि स चैत्यानि, स्थाने स्थाने च भूरिशः । कारयामास मन्त्रीशः, सस्वर्णकलशान्यपि ।।१९।। श्राद्धान् षष्ट्यधिकांस्त्रीणि, शतानि निजसनिभान् । अर्पयित्वा रमामाभू-चक्रेऽर्हन्मतवासितः ।।२०।। अवसाने तु जग्राह, सैष संस्तारकव्रतम् । तत्र व्ययितवान् सप्त-कोटीश्चामीकरस्य सः ।।२१।। संस्तारकव्रतं सम्यक, पालयंस्त्यक्तभोजनः । । . आभूः सङ्घपतिः शुद्ध-ध्यानवान् स्वर्गमीयिवान् ।।२२।। प्रतिवर्ष विधीयन्ते, यात्राः कश्चन धार्मिकैः । जन्मन्यपि न ये यात्रां, कुर्वते ते महालसाः ।।२३।।, या त्रायते भीमभवाटवीभयात्, यात्रार्हती सेति निरुक्तमुच्यते ।। ज्ञात्वेति भव्यैर्भवभञ्जनेच्छया, कार्यं तथा स्यात् प्रतनुर्भवो यथा ।।२४।। ।। इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे सप्तदश उपदेशः ।।१७।। इति श्रीपरमगुरुतपागच्छनायकश्रीसोमसुन्दरसूरिपदकमलमरालमहोपाध्यायश्रीचारित्ररत्नगणिविनेय पं० सोमधर्मगणिविरचितायां श्रीउपदेशसप्ततिकायां श्रीतीर्थाधिकारो द्वितीयः ।।२।। इति श्रीदेवतत्त्वं सम्पूर्णम् ।। १५८ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy