SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ वैताढ्ये षष्टिपञ्चाशनगराणामधीश्वरः । अचलद्विनमेः पुत्रो, राजा गगनवल्लभः ।।१६।। वज्रनाभः पूर्वदिशः, स्वामी पश्चिमनायकः । कल्याणकेतुराजेन्द्र-श्चत्वारोऽमी महीधराः ।।१७।। । प्रत्यहं कुरुते चक्री, प्रयाणं योजनाऽवधि । रत्नानुभावसम्पन्न-सद्यस्काशेषवाञ्छितः ।।१८।। यथाकालं यथायोग्य, क्षणादेव यथेप्सितम् ।। निर्मीयन्ते महोत्तुङ्गा, गृहा वर्द्धकिना पुनः ।।१९।। सुराष्ट्रासु गते सङ्के, शक्तिसिंहनरेश्वरः । भ्रातृव्यः सम्मुखं प्राप्त-श्चक्रिणः प्रणति व्यधात् ।।२०।। दृष्टे श्रीपुण्डरीकाद्रौ, सर्वेषां हर्षपूरणात् । भरतः स्थापयामास, पुरमानन्दपूर्वकम् ।।२१।। यत्र जीवद्युगादीश-प्रासादोऽकारि चक्रिणा । चतुर्युग्यां च चत्वारि, यस्य नामानि जज्ञिरे ।।२२।। . पर्वतारोहसमये, तृषाक्रान्तजनार्थितः । लब्धिमांश्चलणः साधु-चक्रे पथि तटाकिकाम् ।।२३।।। नदीकुण्डादिकं तत्त-न्महिमोक्तिपुरस्सरम् । शक्तिसिंहेनोच्यमानं, भरतोऽपि न्यभालयत् ।।२४।। १५३ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy