________________
गलद्रसं मधूकं दृष्ट्वा भोजं प्रति धनपालोक्तिरपि यथा -
यदास्ति पात्रं न तदास्ति वित्तं, यदास्ति वित्तं न तदास्ति पात्रम् । एवं हि चिन्तापतितो मधूको, मन्येऽश्रुपातै रुदनं करोति ।।१।।
महुअदुमोवि हु रोयइ, फलोदएणावि पत्तरहिएण। नूणं अभव्वजीवा, दाणावसरं न पावंति ।।१।।
पत्तसरीरा जे फलई, 'सहीयते सुंदरचूअ । . पत्तविहूणा जे फलई, ते अ महू अमहू अ ।।२।। आगच्छन्त्येव सा श्वश्रू-स्तद्वृत्तं ज्ञापिता रयात् । कयाचित्प्रातिवेश्मिक्या, रुष्टा चुक्रोश तामिति ।।७।।
किमकारि त्वया पापे !, गृहमभ्याटितं मम । विनाशितानि धान्यानि, तदरे ! याहि मगृहात् ।।८।।
एवं तयाऽम्बिकाक्रुष्टा, लात्वा पुत्रौ च तौ लघू । प्रच्छन्नं निर्ययौ गेहा-न्मरणे कृतनिश्चया ।।९।।
उज्जयन्तपतिश्रीम-नेमिध्याननिबद्धधीः । पिपासिताभ्यां पुत्राभ्या-मियं नीरमयाच्यत ।।१०।।
भूमिं विदार्य पादाभ्यां, नीरमाकृष्य निर्मलम् । पुत्रौ पायितवत्येषा, निजशीलानुभावतः ।।११।।
१. सखीयते ।
१२
उपदेश सप्तति