________________
शत्रुञ्जये रैवते च, तथा श्रीदेवपत्तने । व्ययनीयं त्वयैकैकं, द्वयं चास्तु धनं तव ।।२४।।
इत्युक्त्वा स्वर्गते तस्मिन्, जनन्या सहितस्त्वहम् । अत्रागां सा तु मुक्तास्ति, कपर्दिभवने मया ।।२५।। ।
श्रुत्वेति सचिवो हष्ट-स्तं वृत्तान्तं नरेशितुः । । न्यवेदयत्ततो भूप-स्तन्मातुः सम्मुखं ययौ ।।२६।। .
चैत्ये तत्र समानीय, तां वृद्धां भूरिविस्तरैः । मालां मूर्ती गुणश्रेणी-मिव तां पर्यधापयत् ।।२७।।
स्वामिवक्षस्थले हारं, स्फारं निर्माप्य भूपतिः । नायकस्य पदे रत्नं, तदनयं न्यवीविशत् ।।२८।।'
व्ययित्वेत्यपरं रत्न-द्वयमप्येष पुण्यवान् । . भूपश्च सर्वतीर्थेषु, यात्रां कृत्वा गृहं गतौ ।।२९।। ,
एवं कृतार्थां कमलां विधाय, क्षेत्रेषु सप्तस्वपि भाग्यभाजः ।। नृनाकिसौख्यान्यखिलानि भुक्त्वा, क्रमेण मोक्षाध्वनि सञ्चरन्ति ।।३०।।
।। इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे पञ्चदश उपदेशः ।।१५।।
१५० उपदेश सप्तति