________________
प्रच्छन्नपुरुषः कोऽपि, लक्षैस्तामष्टभिः पुनः । तत: षोडशभिर्ल:-र्वाग्भटस्ताममार्गयत् ।।१५।।
एवं प्रवर्द्धमानेऽथ, मूल्ये प्रच्छन्नपुरुषः । सपादकोट्या तां मालां, मार्गयन् प्रकटोऽभवत् ।।१६।।
सामान्यवेषं तं दृष्ट्वा, नृपो मन्त्रिणमब्रवीत् । द्रम्मसुस्थं त्वया कार्य, ततो मन्त्र्यपि तं जगौ ।।१७।।।
रे वराक ! क ते द्रव्यं, कथं च परिधास्यति । मालामैन्द्रीमिमां किं वा, तव व्रीडापि नास्ति भोः ।।१८।। :
सोऽपि तं विजने नीत्वा, तस्मै रत्नमदीदृशत् । . . सपादकोटिमूल्यं तद्, ज्ञात्वा मन्त्र्यपि तं जगौ ।।१९।।
कुतस्तवेदृशं रत्नं, स प्राहेदृग्विधानि मे । पञ्च रत्नानि विद्यन्ते, तत्सम्बन्धोऽवधार्यताम् ।।२०।।
अभूत्मधुमतीपुस्, हासाख्यो वणिजां वरः । . सौराष्ट्रिको मम पिता, प्राग्वाटज्ञातिमण्डनम् ।।२१।।
आसन्ने मरणेऽन्येयुः, पित्राऽहमिति भाषितः । मया प्रवहणैर्वत्स !, प्रभूतं धनमर्जितम् ।।२२।।
तेन चैतत्सारभूतं, गृहीतं रत्नपञ्चकम् । गृहाण तदिदं वत्स !, तमाकूतं च मे शृणु ।।२३।।
१४९ उपदेश सप्तति