SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ प्रच्छन्नपुरुषः कोऽपि, लक्षैस्तामष्टभिः पुनः । तत: षोडशभिर्ल:-र्वाग्भटस्ताममार्गयत् ।।१५।। एवं प्रवर्द्धमानेऽथ, मूल्ये प्रच्छन्नपुरुषः । सपादकोट्या तां मालां, मार्गयन् प्रकटोऽभवत् ।।१६।। सामान्यवेषं तं दृष्ट्वा, नृपो मन्त्रिणमब्रवीत् । द्रम्मसुस्थं त्वया कार्य, ततो मन्त्र्यपि तं जगौ ।।१७।।। रे वराक ! क ते द्रव्यं, कथं च परिधास्यति । मालामैन्द्रीमिमां किं वा, तव व्रीडापि नास्ति भोः ।।१८।। : सोऽपि तं विजने नीत्वा, तस्मै रत्नमदीदृशत् । . . सपादकोटिमूल्यं तद्, ज्ञात्वा मन्त्र्यपि तं जगौ ।।१९।। कुतस्तवेदृशं रत्नं, स प्राहेदृग्विधानि मे । पञ्च रत्नानि विद्यन्ते, तत्सम्बन्धोऽवधार्यताम् ।।२०।। अभूत्मधुमतीपुस्, हासाख्यो वणिजां वरः । . सौराष्ट्रिको मम पिता, प्राग्वाटज्ञातिमण्डनम् ।।२१।। आसन्ने मरणेऽन्येयुः, पित्राऽहमिति भाषितः । मया प्रवहणैर्वत्स !, प्रभूतं धनमर्जितम् ।।२२।। तेन चैतत्सारभूतं, गृहीतं रत्नपञ्चकम् । गृहाण तदिदं वत्स !, तमाकूतं च मे शृणु ।।२३।। १४९ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy