________________
“उपदेशः- १५”
लक्ष्मीः कृतार्था खलु सैव या जिन - प्रासादपूजाद्युपयोगिनी भवेत् । सपादकोटीमणिना विभूषितं, हारं यथा श्रीजगडो व्यधापयत् ।।१।।
भूप: कुमारपालाख्यो - ऽन्यदा शत्रुञ्जयं प्रति । यात्रायै प्रगुणीभूतो बहिष्प्रस्थानमातनोत् ।।१।।
तत्र चाऽवसरे कश्चिद्धूपमेत्य व्यजिज्ञपत् । आयाति त्वामुपद्रोतुं, कर्णो डाहलदेशराट् ।।२।।
श्रुत्वेति भूपतिः खित्रो, ध्वस्तयात्रामनोरथः । आगत्य गुरुपादान्ते, स्वं निनिन्द मुहुर्मुहुः ।।३।।
किञ्चिद्विचिन्त्य तेऽप्याहुः, खेदं राजेन्द्र ! मा कृथाः द्वादशप्रहरप्रान्ते, समाधिर्भविता तव ।।४ ।।
इति स्वस्थीकृते भूपे, निर्णीतसमये ततः । कोऽप्युपेत्य नृपं प्राह कर्णस्तव रिपुर्मृतः ।।५ ।।
रजन्यां विषमे क्वापि, निद्रामुद्रितलोचनः । उल्ललतुरगारूढः, कण्ठस्थस्वर्णशृङ्खलः ।।६।।
अन्तःप्रविष्टन्यग्रोध-शाखायां लम्बितः क्षणात् । पञ्चत्वं प्राप्त इत्येतद्-दृष्ट्या दृष्ट्वाऽहमागतः ।।७।।
शोचयित्वा क्षणं भूपो, द्विसप्ततिनृपैर्युतः । चलितस्तीर्थयात्राये, समं श्रीहेमसूरिणा ||८||
१४७ उपदेश सप्तति