________________
स्वस्वापराधं निन्दन्तौ, गर्हन्तौ च परस्परम् । तौ क्षमाधिपती वार्तां चिरं प्रीत्या वितेनतुः ।। २७ ।।
अत्रान्तरे तयोः पाप- - शुध्यर्थं केऽपि सूरयः । आजग्मुः केवलज्ञाना-ऽवलोकितजगत्त्रयाः ।। २८ । । स साधुः स च भूपालो, नन्तुं केवलिनं मुनिम् । आजग्मतुर्महानन्द-पूरितौ भक्तिसंयुतौ ।। २९ ।।
समाधिना श्रुता ताभ्यां तत्कृता धर्म्मदेशना । सम्यग् निजं निजं पाप-मुक्तं तस्य पुरः पुनः ।। ३० ।।
केवली प्राह राजेन्द्र !, गच्छ शत्रुञ्जयं गिरिम् । नमस्यन्नर्हतस्तत्र, ज्ञानं सिद्धिं च लप्स्यसे ।। ३१ । ।
•
घनं तवापि कर्मेदं, विना शत्रुञ्जयं मुने ! । क्षयं न यास्यति प्रौढै-स्तपोभिरपि सेवितैः ।। ३२ ।।
त्वमेनं पुरतः कृत्वा, गुरूं भूपजनैः समम् । शत्रुञ्जयादितीर्थेषु कुरु यात्रां समाहितः ।। ३३ ।।
यात्रान्ते सर्वविरतो, निरतो ब्रह्मणि स्थिरे । अनेन मुनिना सार्द्धं, चारित्रं परिपालय ।। ३४ ।।
इति श्रुत्वा तथा कृत्वा, द्वावप्येतौ क्षमापती । हत्वा हत्यादिपापानि, सिद्धौ शत्रुञ्जयाचले ।। ३५ ।।
श्रीतीर्थमाहात्म्यमिति श्रवः पुटै-निपीय पीयूषमिवाऽतिहर्षितः ।
त्यजन्तु भो भव्यजनाः ! कुवासना-विषं सुखं मुक्तिभवं भजन्तु च ।। ३६ ।।
।। इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे चतुर्दश उपदेशः । । १४ ।।
१४६ उपदेश सप्तति