________________
अहो ! तस्य मुनेस्त्यक्त-सङ्गस्याप्यघहेतुकः । एषोऽहमजनीत्यादि-रनों मन्निमित्तजः ।।१८।।
भवेऽत्रापि स मां कोपात्, पुनश्चेन्मारयिष्यति । तदैवंविधराज्यस्य, भ्रंशो भावी हहा ! मुधा ।।१९।।
अत्र चेदेत्यसौ साधुः, स्वागस्तत् क्षमयाम्यहम् । विमृश्येति कृतं तेन, श्लोकार्द्ध भीतचेतसा ।।२०।।
विहङ्गः शबरः सिंहो, द्वीपी सण्डः फणी द्विजः । अन्त्यार्द्ध पूरयेत्तस्य, लक्ष्यमित्युदघोषयत् ।।२१।।
तं पपाठ जनः सर्वः, परं कोऽपि न पूरयेत् । . . छद्मस्थानां हि दुर्लक्ष्यं, परिचित्तोपलक्षणम् ।।२२।।
स एव विहरनागात्, मुनिस्तत्र पुरेऽन्यदा । . उद्गीयमानं गोपेन, श्लोकखण्डं च शुश्रुवे ।।२३।। ।
क्षणं विमृश्य ज्ञात्वा चो-त्तरार्द्धमिति सोऽवदत् । येनाऽमी निहताः कोपात्, स कथं भविता हहा ! ।।२४।।
गोपो निशम्य श्लोकं तं, पूर्ण राज्ञे न्यवेदयत् । समस्येयं मयाऽपूरि, स धैर्यमिति सोऽवदत् ।।२५।।
न मनो विस्मितं राज्ञो, निर्बन्धे सत्यमाह सः । श्रुत्वा तत्तत्र गत्वा तं, क्षमयामास पार्थिवः ।।२६।।
१४५ उपदेश सप्तति