________________
भिल्लो विपद्य सञ्जातः, केसरी क्वापि कानने । स तथैव ऋषिः पुच्छा-च्छोटिनं तममारयत् ।।९।।
सञ्जातस्तदनुद्वीपी, मारितश्च तथैव सः । तस्य हि भ्रष्टवृत्तस्य, तेजोलेश्यास्त्रतां ययौ ।।१०।।
ततो राजगृहे जातः, सण्डः सम्मुखधावनात् । सोऽपि व्यापादितो तेन, पूर्ववन्मत्सरस्पृशा ।।११।।
ततः फणफणाभार- भारितो भीषणाकृतिः । निरीक्ष्य तं मुनिं कायोत्सर्गस्थं सोऽभ्यधावत ।। १२ । ।
प्राग्वत्तं हतवान्साधुः सञ्जातो ब्राह्मणस्ततः । निन्दां कुर्वन् हतः क्वाऽहो !, निर्विवेकस्य संवरः ।। १३ ।।
हत्यासप्तकमित्येष, निर्ममोऽपि विनिर्ममे । योगिनोऽपीति पापानि, कर्मणां धिग् विजृम्भितम् ।।१४।।
द्विजो वाणारसीपुर्यां महाबाहुनृपोऽभवत् I यथाप्रवृत्तकरणा-च्छुभकर्म्मोदयोन्मुखः ।। १५ ।।
देवो रासभतां याति रासभोऽपि नरेन्द्रताम् । ईश्वरो निःस्वतां चेति, कटरे ! भवनाटकम् ।।१६।।
स भूपतिर्गवाक्षस्थो ऽन्यदा कञ्चन संयतम् ।
प्रेक्ष्य जातिस्मृतेः प्राच्यं, ज्ञातवान् भवसप्तकम् ।।१७।।
१४४ उपदेश सप्तति