________________
"उपदेश-३"
श्रीवीतरागस्मरणैकताना, भवन्ति ये ते सुखभाजनं स्युः । यथाम्बिका रैवतदैवतं श्री-नेमिं स्मरन्ती भवति स्म देवी ।।१।
।
सुराष्ट्रविषये कोटी-नारनानि पुरेऽभवत् । सोमभट्ट इति ख्यातो, मिथ्यादृग् द्विजपुङ्गवः ।।१।।
.
देवशर्माख्यभूदेव-तनया विनयान्विता । अम्बिका तस्य भार्याऽभू-दभङ्गसुभगाकृतिः ।।२।। .
परं सा श्राविका शील-सम्पन्ना परमाईती । तयोर्द्वयोरपि प्रीति-स्तेन मन्दायते भृशम् ।।३।।
तथापि तेन सार्द्ध सा, भुञ्जाना भोगजं सुखम् । तनयो जनयामास, शुभङ्करविभङ्करौ ।।४।।
अन्यदा पर्वणि क्वापि, सज्जीभूते च भोजने । श्वश्वामन्यत्र जग्मुष्यामम्बिकैव गृहेऽभवत् ।।५।।
तत्र चावसरे प्राप्ती, साधू तैरशनादिभिः । पुण्यवत्या तया स्वैरं, सभक्तिप्रतिलाभितौ ।।६।। यतः -
उत्तमपत्तं साहू, मज्झिमपत्तं तु सावया भणिया । अविरयसम्मदिछि, जहन्नपत्तं मुणेयव्वं ।।१।।
११
उपदेश सप्तति