________________
"उपदेशः-१३" . जीर्णोद्धारं नूतनं वा जिनानां, ये प्रासादं कारयन्त्याऽऽस्तिकौघाः ।। ते स्युः पूज्या रामनामा यथेह, श्रेष्ठी श्रेयः श्रीनिवासो बभव ।।१।।
श्रीनिवासपुरे श्रेष्ठी श्रीगुप्तः श्रीनिकेतनम् । स्वामी द्रव्याष्टकोटीनां, प्रकृत्या कृपणः पुनः ।।१।।
तत्पुत्रो विजयो नाम, स तु दानप्रियो भृशम् । पिता निषेधयत्येनं, दानं शूलं हि तादृशाम् ।।२।।
अन्येद्युः शूलरोगेण, श्रीगुप्तो मृत्युमाप्तवान् । : अथाह जननी पुत्रं, शृणु वत्स ! वचो मम ।।३।। त्वदीयजनकेनाऽष्टा-वत्र द्रविणकोटयः । ' सन्ति न्यासीकृतास्तास्त्वं, गृहाण च कृतार्थय ।।४।।
सोऽपि यावदुपादत्ते, तनिधानमनाकुलः। . तावद्ददर्श फूत्कार-भीषणं तत्र पत्रगम् ।।५।। व्यावृत्त्य सहसोद्यातो, विजयस्तस्य दर्शनात् । एवं द्विस्त्रिरसौ चक्रे, न तथाप्याप्तवानिधिम् ।।६।।
अन्यदा केवली कोऽपि, प्राप्तस्तत्र सुरद्रुवत् । समं राजादिलोकेन, विजयो वन्दितुं ययौ ।।७।।
तत्कृतां देशनां श्रुत्वा, विजयः पृष्टवानिति । निधिस्थाने कथं सर्प-दर्शनं मेऽभवत्प्रभो ! ।।८।।
१३९ उपदेश सप्तति